शिवाष्टकम्
प्रभुं प्राणनाथं विभुं विश्वनाथं
जगन्नाथनाथं सदानन्दभाजाम् ।
भवद्भव्यभूतेश्वरं भूतनाथं
शिवं शङ्करं शम्भुम् ईशानम् ईडे ॥ 1 ॥
गले रुण्डमालं तनौ सर्पजालं
महाकालकालं गणेशादिपालम् ।
जटाजूटगङ्गोत्तरङ्गैर् विशालं
शिवं शङ्करं शम्भुम् ईशानम् ईडे ॥ 2 ॥
मुदामाकरं मण्डनं मण्डयन्तं
महामण्डलं भस्मभूषाधरं तम् ।
अनादिं ह्यपारं महामोहमारं
शिवं शङ्करं शम्भुम् ईशानम् ईडे ॥ 3 ॥
वटाधोनिवासं महाट्टाट्टहासं
महापापनाशं सदा सुप्रकाशम् ।
गिरीशं गणेशं सुरेशं महेशं
शिवं शङ्करं शम्भुम् ईशानम् ईडे ॥ 4 ॥
गिरीन्द्रात्मजासङ्गृहीतार्धदेहं
गिरौ संस्थितं सर्वदापन्नगेहम् ।
परब्रह्म ब्रह्मादिभिर् वन्द्यमानं
शिवं शङ्करं शम्भुम् ईशानम् ईडे ॥ 5 ॥
कपालं त्रिशूलं कराभ्यां दधानं
पदाम्भोजनम्राय कामं ददानम् ।
बलीवर्दयानं सुराणां प्रधानं
शिवं शङ्करं शम्भुम् ईशानम् ईडे ॥ 6 ॥
शरच्चन्द्रगात्रं गणानन्दपात्रं
त्रिनेत्रं पवित्रं धनेशस्य मित्रम् ।
अपर्णाकलत्रं सदा सच्चरित्रं
शिवं शङ्करं शम्भुम् ईशानम् ईडे ॥ 7 ॥
हरं सर्पहारं चिताभूविहारं
भवं वेदसारं सदा निर्विकारम् ।
श्मशाने वसन्तं मनोजं दहन्तं
शिवं शङ्करं शम्भुम् ईशानम् ईडे ॥ 8 ॥
स्वयं यः प्रभाते नरः शूलपाणे
पठेत् स्तोत्ररत्नं त्व् इह प्राप्य रत्नम् ।
सुपुत्रं सुधान्यं सुमित्रं कलत्रं
विचित्रैः समाराध्य मोक्षं प्रयाति ॥