Home › Pooja Library › Sri Venkateswara Ashtottara Sata Nama Stotram — हिंदी

श्री वेङ्कटेश्वर अष्टोत्तरशत नामस्तोत्रम्

श्री वेङ्कटेशः श्रीनिवासो लक्ष्मीपतिरनामयः ।
अमृतांशो जगद्वन्द्यो गोविन्दश्शाश्वतः प्रभुः ॥ 1 ॥

शेषाद्रिनिलयो देवः केशवो मधुसूदनः ।
अमृतो माधवः कृष्णः श्रीहरिर्ज्ञानपञ्जरः ॥ 2 ॥

श्रीवत्सवक्षास्सर्वेशो गोपालः पुरुषोत्तमः ।
गोपीश्वरः परञ्ज्योतिर्वैकुण्ठपतिरव्ययः ॥ 3 ॥

सुधातनुर्यादवेन्द्रो नित्ययौवनरूपवान् ।
चतुर्वेदात्मको विष्णुरच्युतः पद्मिनीप्रियः ॥ 4 ॥

धरापतिस्सुरपतिर्निर्मलो देवपूजितः ।
चतुर्भुजश्चक्रधरस्त्रिधामा त्रिगुणाश्रयः ॥ 5 ॥

निर्विकल्पो निष्कलङ्को निरन्तरो निरञ्जनः ।
निराभासो नित्यतृप्तो निर्गुणो निरुपद्रवः ॥ 6 ॥

गदाधरश्शार्ङ्गपाणिर्नन्दकी शङ्खधारकः ।
अनेकमूर्तिरव्यक्तः कटिहस्तो वरप्रदः ॥ 7 ॥

अनेकात्मा दीनबन्धुरार्तलोकाऽभयप्रदः ।
आकाशराजवरदो योगिहृत्पद्ममन्दिरः ॥ 8 ॥

दामोदरो जगत्पालः पापघ्नो भक्तवत्सलः ।
त्रिविक्रमश्शिंशुमारो जटामकुटशोभितः ॥ 9 ॥

शङ्खमध्योल्लसन्मञ्जुकिङ्किण्याढ्यकरण्डकः ।
नीलमेघश्यामतनुर्बिल्वपत्रार्चनप्रियः ॥ 10 ॥

जगद्व्यापी जगत्कर्ता जगत्साक्षी जगत्पतिः ।
चिन्तितार्थप्रदो जिष्णुर्दाशार्हो दशरूपवान् ॥ 11 ॥

देवकीनन्दनश्शौरिर्हयग्रीवो जनार्दनः ।
कन्याश्रवणतारेज्यः पीताम्बरधरोऽनघः ॥ 12 ॥

वनमाली पद्मनाभो मृगयासक्तमानसः ।
अश्वारूढः खड्गधारी धनार्जनसमुत्सुकः ॥ 13 ॥

घनसारलसन्मध्यकस्तूरीतिलकोज्ज्वलः ।
सच्चिदानन्दरूपश्च जगन्मङ्गलदायकः ॥ 14 ॥

यज्ञरूपो यज्ञभोक्ता चिन्मयः परमेश्वरः ।
परमार्थप्रदश्शान्तश्श्रीमान् दोर्दण्ड विक्रमः ॥ 15 ॥

परात्परः परब्रह्मा श्रीविभुर्जगदीश्वरः ।
एवं श्री वेङ्कटेशस्य नाम्नामष्टोत्तरं शतम् ॥ 16 ॥

पठतां शृण्वतां भक्त्या सर्वाभीष्टप्रदं शुभम् ।
त्रिसन्ध्यं यः पठेन्नित्यं सर्वान् कामानवाप्नुयात् ॥ 17 ॥

इति श्री ब्रह्माण्डपुराणे श्री वेङ्कटेश्वराष्टोत्तरशतनाम स्तोत्रम् ।

OHTCC Assistant ✕
🙏 Namaste! How can I help you today?