शिवाष्टोत्तरशतनामस्तोत्रम्
शिवो महेश्वरश् शम्भुः पिनाकी शशिशेखरः ।
वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥ 1 ॥
शङ्करश् शूलपाणिश् च खट्वाङ्गी विष्णुवल्लभः ।
शिपिविष्टो ऽम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ॥ 2 ॥
भवश् शर्वस् त्रिलोकेशः शितिकण्ठः शिवाप्रियः ।
उग्रः कपाली कामारिर् अन्धकासुरसूदनः ॥ 3 ॥
गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः ।
भीमः परशुहस्तश् च मृगपाणिर् जटाधरः ॥ 4 ॥
कैलासवासी कवची कठोरस् त्रिपुरान्तकः ।
वृषाङ्को वृषभारूढो भस्मोद्धूलितविग्रहः ॥ 5 ॥
सामप्रियस् स्वरमयस् त्रयीमूर्तिर् अनीश्वरः ।
सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥ 6 ॥
हविर् यज्ञमयस् सोमः पञ्चवक्त्रस् सदाशिवः ।
विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥ 7 ॥
हिरण्यरेता दुर्धर्षो गिरीशो गिरिशो ऽनघः ।
भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः ॥ 8 ॥
कृत्तिवासाः पुरारातिर् भगवान् प्रमथाधिपः ।
मृत्युञ्जयस् सूक्ष्मतनुर् जगद्व्यापी जगद्गुरुः ॥ 9 ॥
व्योमकेशो महासेनजनकश् चारुविक्रमः ।
रुद्रो भूतपतिः स्थाणुर् अहिर्बुध्न्यो दिगम्बरः ॥ 10 ॥
अष्टमूर्तिर् अनेकात्मा सात्त्विकश् शुद्धविग्रहः ।
शाश्वतः खण्डपरशुर् अजः पाशविमोचकः ॥ 11 ॥
मृडः पशुपतिर् देवो महादेवो ऽव्ययो हरिः ।
पूषदन्तभिद् अव्यग्रो दक्षाध्वरहरो हरः ॥ 12 ॥
भगनेत्रभिद् अव्यक्तो सहस्राक्षस् सहस्रपात् ।
अपवर्गप्रदो ऽनन्तस् तारकः परमेश्वरः ॥ 13 ॥
एवं श्रीशम्भुदेवस्य नाम्नाम् अष्टोत्तरं शतम् ॥
इति श्रीशिवाष्टोत्तरशतनामस्तोत्ररत्नं समाप्तम् ।