बिल्वाष्टकम्
आठ श्लोकों का पाठ
त्रिदळं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।
त्रिजन्मपापसंहारं एकबिल्वं शिवार्पितम् ॥ 1 ॥
त्रिशाखैर् बिल्वपत्रैश् च अच्छिद्रैः कोमलैः शुभैः ।
तव पूजां करिष्यामि एकबिल्वं शिवार्पितम् ॥ 2 ॥
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।
अघोरपापसंहारं एकबिल्वं शिवार्पितम् ॥ 3 ॥
सालग्रामेषु विप्रेषु तटाके वनकूपयोः ।
यज्ञकोटिसहस्राणां एकबिल्वं शिवार्पितम् ॥ 4 ॥
दन्तिकोटिसहस्रेषु अश्वमेधशतानि च ।
कोटिकन्याप्रदानेन एकबिल्वं शिवार्पितम् ॥ 5 ॥
एकं च बिल्वपत्रैश् च कोटियज्ञफलं लभेत् ।
महादेवैश् च पूजार्थं एकबिल्वं शिवार्पितम् ॥ 6 ॥
काशीक्षेत्रे निवासं च कालभैरवदर्शनम् ।
गयाप्रयागमे दृष्ट्वा एकबिल्वं शिवार्पितम् ॥ 7 ॥
उमया सह देवेशं वाहनं नन्दिशङ्करम् ।
मुच्यते सर्वपापेभ्यो एकबिल्वं शिवार्पितम् ॥ 8 ॥
॥ इति श्री बिल्वाष्टकम् ॥
विस्तृत पाठ
त्रिदळं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।
त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥ 1 ॥
त्रिशाखैर् बिल्वपत्रैश् च अच्छिद्रैः कोमलैः शुभैः ।
तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ 2 ॥
कोटिकन्यामहादानं तिलपर्वतकोटयः ।
काञ्चनं शैलदानेन एकबिल्वं शिवार्पणम् ॥ 3 ॥
काशीक्षेत्रनिवासं च कालभैरवदर्शनम् ।
प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् ॥ 4 ॥
इन्दुवारे व्रतं स्थित्वा निराहारो महेश्वराः ।
नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणम् ॥ 5 ॥
रामलिङ्गप्रतिष्ठा च वैवाहिकं कृतं तथा ।
तटाकानि च सन्धानं एकबिल्वं शिवार्पणम् ॥ 6 ॥
अखण्डबिल्वपत्रं च आयुतं शिवपूजनम् ।
कृतं नामसहस्रेण एकबिल्वं शिवार्पणम् ॥ 7 ॥
उमया सह देवेश नन्दिवाहनम् एव च ।
भस्मलेपनसर्वाङ्गं एकबिल्वं शिवार्पणम् ॥ 8 ॥
सालग्रामेषु विप्राणां तटाकं दशकूपयोः ।
यज्ञकोटिसहस्रस्य एकबिल्वं शिवार्पणम् ॥ 9 ॥
दन्तिकोटिसहस्रेषु अश्वमेधशतक्रतौ ।
कोटिकन्यामहादानं एकबिल्वं शिवार्पणम् ॥ 10 ॥
बिल्वानां दर्शनं पुण्यं स्पर्शनं पापनाशनम् ।
अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ 11 ॥
सहस्रवेदपाठेषु ब्रह्मस्थापनम् उच्यते ।
अनेकव्रतकोटीनां एकबिल्वं शिवार्पणम् ॥ 12 ॥
अन्नदानसहस्रेषु सहस्रोपनयनं तथा ।
अनेकजन्मपापानि एकबिल्वं शिवार्पणम् ॥ 13 ॥
बिल्वाष्टकम् इदं पुण्यं यः पठेच् छिवसन्निधौ ।
शिवलोकम् अवाप्नोति एकबिल्वं शिवार्पणम् ॥ 14 ॥