श्री राम अष्टोत्तर शत नामावली
- ॐ श्रीरामाय नमः
- ॐ रामभद्राय नमः
- ॐ रामचन्द्राय नमः
- ॐ शाश्वताय नमः
- ॐ राजीवलोचनाय नमः
- ॐ श्रीमते नमः
- ॐ राजेन्द्राय नमः
- ॐ रघुपुङ्गवाय नमः
- ॐ जानकीवल्लभाय नमः
- ॐ जैत्राय नमः
- ॐ जितामित्राय नमः
- ॐ जनार्दनाय नमः
- ॐ विश्वामित्रप्रियाय नमः
- ॐ दान्ताय नमः
- ॐ शरणत्राणतत्पराय नमः
- ॐ वालिप्रमथनाय नमः
- ॐ वाङ्मिने नमः
- ॐ सत्यवाचे नमः
- ॐ सत्यविक्रमाय नमः
- ॐ सत्यव्रताय नमः
- ॐ व्रतधराय नमः
- ॐ सदा हनुमदाश्रिताय नमः
- ॐ कोसलेयाय नमः
- ॐ खरध्वंसिने नमः
- ॐ विराधवधपण्डिताय नमः
- ॐ विभीषणपरित्रात्रे नमः
- ॐ हरकोदण्ड खण्डनाय नमः
- ॐ सप्तसाल प्रभेत्त्रे नमः
- ॐ दशग्रीवशिरोहराय नमः
- ॐ जामदग्न्यमहादर्पदलनाय नमः
- ॐ ताटकान्तकाय नमः
- ॐ वेदान्त साराय नमः
- ॐ वेदात्मने नमः
- ॐ भवरोगस्य भेषजाय नमः
- ॐ दूषणत्रिशिरोहन्त्रे नमः
- ॐ त्रिमूर्तये नमः
- ॐ त्रिगुणात्मकाय नमः
- ॐ त्रिविक्रमाय नमः
- ॐ त्रिलोकात्मने नमः
- ॐ पुण्यचारित्रकीर्तनाय नमः
- ॐ त्रिलोकरक्षकाय नमः
- ॐ धन्विने नमः
- ॐ दण्डकारण्यकर्तनाय नमः
- ॐ अहल्याशापशमनाय नमः
- ॐ पितृभक्ताय नमः
- ॐ वरप्रदाय नमः
- ॐ जितक्रोधाय नमः
- ॐ जितामित्राय नमः
- ॐ जगद्गुरवे नमः
- ॐ ऋक्षवानरसङ्घातिने नमः
- ॐ चित्रकूटसमाश्रयाय नमः
- ॐ जयन्तत्राण वरदाय नमः
- ॐ सुमित्रापुत्र सेविताय नमः
- ॐ सर्वदेवादिदेवाय नमः
- ॐ मृतवानरजीवनाय नमः
- ॐ मायामारीचहन्त्रे नमः
- ॐ महादेवाय नमः
- ॐ महाभुजाय नमः
- ॐ सर्वदेवस्तुताय नमः
- ॐ सौम्याय नमः
- ॐ ब्रह्मण्याय नमः
- ॐ मुनिसंस्तुताय नमः
- ॐ महायोगिने नमः
- ॐ महोदाराय नमः
- ॐ सुग्रीवेप्सित राज्यदाय नमः
- ॐ सर्वपुण्याधिक फलाय नमः
- ॐ स्मृतसर्वाघनाशनाय नमः
- ॐ आदिपुरुषाय नमः
- ॐ परमपुरुषाय नमः
- ॐ महापुरुषाय नमः
- ॐ पुण्योदयाय नमः
- ॐ दयासाराय नमः
- ॐ पुराणाय नमः
- ॐ पुरुषोत्तमाय नमः
- ॐ स्मितवक्त्राय नमः
- ॐ मितभाषिणे नमः
- ॐ पूर्वभाषिणे नमः
- ॐ राघवाय नमः
- ॐ अनन्तगुणगम्भीराय नमः
- ॐ धीरोदात्त गुणोत्तमाय नमः
- ॐ मायामानुषचारित्राय नमः
- ॐ महादेवादि पूजिताय नमः
- ॐ सेतुकृते नमः
- ॐ जितवाराशये नमः
- ॐ सर्वतीर्थमयाय नमः
- ॐ हरये नमः
- ॐ श्यामाङ्गाय नमः
- ॐ सुन्दराय नमः
- ॐ शूराय नमः
- ॐ पीतवाससे नमः
- ॐ धनुर्धराय नमः
- ॐ सर्वयज्ञाधिपाय नमः
- ॐ यज्वने नमः
- ॐ जरामरणवर्जिताय नमः
- ॐ शिवलिङ्गप्रतिष्ठात्रे नमः
- ॐ सर्वावगुणवर्जिताय नमः
- ॐ परमात्मने नमः
- ॐ परस्मै ब्रह्मणे नमः
- ॐ सच्चिदानन्द विग्रहाय नमः
- ॐ परस्मैज्योतिषे नमः
- ॐ परस्मै धाम्ने नमः
- ॐ पराकाशाय नमः
- ॐ परात्पराय नमः
- ॐ परेशाय नमः
- ॐ पारगाय नमः
- ॐ पाराय नमः
- ॐ सर्वदेवात्मकाय नमः
- ॐ पराय नमः
इति श्री रामाष्टोत्तर शतनामावलीस्समाप्ता ॥