श्री ललिता सहस्र नामावली
ध्यानम्
सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्
तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ।
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं
सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम् ॥
अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् ।
अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥
ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं
हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।
सर्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं
श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ॥
सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां
जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥
नामावली
- ॐ ऐं ह्रीं श्रीं श्रीमात्रे नमः
- ॐ श्रीमहाराज्ञै नमः
- ॐ श्रीमत्सिंहासनेश्वर्यै नमः
- ॐ चिदग्निकुण्डसम्भूतायै नमः
- ॐ देवकार्यसमुद्यतायै नमः
- ॐ उद्यद्भानुसहस्राभायै नमः
- ॐ चतुर्बाहुसमन्वितायै नमः
- ॐ रागस्वरूपपाशाढ्यायै नमः
- ॐ क्रोधाकाराङ्कुशोज्ज्वलायै नमः
- ॐ मनोरूपेक्षुकोदण्डायै नमः
- ॐ पञ्चतन्मात्रसायकायै नमः
- ॐ निजारुणप्रभापूरमज्जद् ब्रह्माण्डमण्डलायै नमः
- ॐ चम्पकाशोकपुन्नागसौगन्धिक-लसत्कचायै नमः
- ॐ कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डितायै नमः
- ॐ अष्टमीचन्द्रविभ्राजदलिकस्थलशोभितायै नमः
- ॐ मुखचन्द्रकलङ्काभमृगनाभिविशेषकायै नमः
- ॐ वदनस्मरमाङ्गल्यगृहतोरणचिल्लिकायै नमः
- ॐ वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचनायै नमः
- ॐ नवचम्पकपुष्पाभनासादण्डविराजितायै नमः
- ॐ ताराकान्तितिरस्कारिनासाभरणभासुरायै नमः
- ॐ कदम्बमञ्जरीकॢप्तकर्णपूरमनोहरायै नमः
- ॐ ताटङ्कयुगलीभूततपनोडुपमण्डलायै नमः
- ॐ पद्मरागशिलादर्शपरिभाविकपोलभुवे नमः
- ॐ नवविद्रुमबिम्बश्रीन्यक्कारिरदनच्छदायै नमः
- ॐ शुद्धविद्याङ्कुराकारद्विजपङ्क्तिद्वयोज्ज्वलायै नमः
- ॐ कर्पूरवीटिकामोदसमाकर्षि दिगन्तरायै नमः
- ॐ निजसल्लापमाधुर्य विनिर्भत्सितकच्छप्यै नमः
- ॐ मन्दस्मितप्रभापूरमज्जत्कामेशमानसायै नमः
- ॐ अनाकलितसादृश्यचिबुकश्रीविराजितायै नमः
- ॐ कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरायै नमः
- ॐ कनकाङ्गदकेयूरकमनीयमुजान्वितायै नमः
- ॐ रत्नग्रैवेय चिन्ताकलोलमुक्ताफलान्वितायै नमः
- ॐ कामेश्वारप्रेमरत्नमणिप्रतिपणस्तन्यै नमः
- ॐ नाभ्यालवालरोमालिलताफलकुचद्वय्यै नमः
- ॐ लक्ष्यरोमलताधारतासमुन्नेयमध्यमायै नमः
- ॐ स्तनभारदलन्मध्यपट्टबन्धवलित्रयायै नमः
- ॐ अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतट्यै नमः
- ॐ रत्नकिङ्किणिकारम्यरशनादामभूषितायै नमः
- ॐ कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्वितायै नमः
- ॐ माणिक्यमुकुटाकारजानुद्वयविराजितायै नमः
- ॐ इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिकायै नमः
- ॐ गूढगूल्फायै नमः
- ॐ कूर्म पृष्ठजयिष्णुप्रपदान्वितायै नमः
- ॐ नखदीधितिसञ्छन्ननमज्जनतमोगुणायै नमः
- ॐ पदद्वयप्रभाजालपराकृतसरोरुहायै नमः
- ॐ शिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजायै नमः
- ॐ मरालीमन्दगमनायै नमः
- ॐ महालावण्यशेवधये नमः
- ॐ सर्वारुणायै नमः
- ॐ अनवद्याङ्ग्यै नमः
- ॐ सर्वाभरणभूषितायै नमः
- ॐ शिवकामेश्वराङ्कस्थायै नमः
- ॐ शिवायै नमः
- ॐ स्वाधीनवल्लभायै नमः
- ॐ सुमेरुमध्यशृङ्गस्थायै नमः
- ॐ श्रीमन्नगरनायिकायै नमः
- ॐ चिन्तामणिगृहान्तस्थायै नमः
- ॐ पञ्चब्रह्मासनस्थितायै नमः
- ॐ महापद्माटवीसंस्थायै नमः
- ॐ कदम्बवनवासिन्यै नमः
- ॐ सुधासागरमध्यस्थायै नमः
- ॐ कामाक्ष्यै नमः
- ॐ कामदायिन्यै नमः
- ॐ देवर्षिगणसङ्घातस्तूयमानात्मवैभायै नमः
- ॐ भण्डासुरवधोद्युक्तशक्तिसेनासमन्वितायै नमः
- ॐ सम्पत्करीसमारूढसिन्दुरव्रजसेवितायै नमः
- ॐ अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृतायै नमः
- ॐ चक्रराजरथारूढसर्वायुधपरिष्कृतायै नमः
- ॐ गेयचक्ररथारूढमन्त्रिणीपरिसेवितायै नमः
- ॐ किरिचक्ररथारूढदण्डनाथापुरस्कृतायै नमः
- ॐ ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगायै नमः
- ॐ भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षितायै नमः
- ॐ नित्यापराक्रमाटोपनिरीक्षणसमुत्सुकायै नमः
- ॐ भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दितायै नमः
- ॐ मन्त्रिण्यम्बाविरचितविषङ्गवधतोषितायै नमः
- ॐ विशुक्रप्राणहरणवाराहीवीर्यनन्दितायै नमः
- ॐ कामेश्वरमुखालोककल्पितश्रीगणेश्वरायै नमः
- ॐ महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षितायै नमः
- ॐ भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिण्यै नमः
- ॐ कराङ्गुलिनखोत्पन्ननारायणदशाकृत्यै नमः
- ॐ महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिकायै नमः
- ॐ कामेश्वरास्त्रनिर्दग्धसभाण्डासुरशून्यकायै नमः
- ॐ ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवायै नमः
- ॐ हरनेत्राग्निसन्दग्धकामसञ्जीवनौषध्यै नमः
- ॐ श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजायै नमः
- ॐ कण्ठाधः कटिपर्यन्तमध्यकूटस्वरूपिण्यै नमः
- ॐ शक्तिकूटैकतापन्नकट्यधोभागधारिण्यै नमः
- ॐ मूलमन्त्रात्मिकायै नमः
- ॐ मूलकूटत्रयकलेबरायै नमः
- ॐ कुलामृतैकरसिकायै नमः
- ॐ कुलसङ्केतपालिन्यै नमः
- ॐ कुलाङ्गनायै नमः
- ॐ कुलान्तःस्थायै नमः
- ॐ कौलिन्यै नमः
- ॐ कुलयोगिन्यै नमः
- ॐ अकुलायै नमः
- ॐ समयान्तस्थायै नमः
- ॐ समयाचारतत्परायै नमः
- ॐ मूलाधारैकनिलयायै नमः
- ॐ ब्रह्मग्रन्थिविभेदिन्यै नमः
- ॐ मणिपूरान्तरुदितायै नमः
- ॐ विष्णुग्रन्थिविभेदिन्यै नमः
- ॐ आज्ञाचक्रान्तरालस्थायै नमः
- ॐ रुद्रग्रन्थिविभेदिन्यै नमः
- ॐ सहस्राराम्बुजारूढायै नमः
- ॐ सुधासाराभिवर्षिण्यै नमः
- ॐ तटिल्लतासमरुच्यै नमः
- ॐ षट्चक्रोपरिसंस्थितायै नमः
- ॐ महासक्त्यै नमः
- ॐ कुण्डलिन्यै नमः
- ॐ बिसतन्तुतनीयस्यै नमः
- ॐ भवान्यै नमः
- ॐ भावनागम्यायै नमः
- ॐ भवारण्यकुठारिकायै नमः
- ॐ भद्रप्रियायै नमः
- ॐ भद्रमूर्त्यै नमः
- ॐ भक्तसौभाग्यदायिन्यै नमः
- ॐ भक्तिप्रियायै नमः
- ॐ भक्तिगम्यायै नमः
- ॐ भक्तिवश्यायै नमः
- ॐ भयापहायै नमः
- ॐ शाम्भव्यै नमः
- ॐ शारदाराध्यायै नमः
- ॐ शर्वाण्यै नमः
- ॐ शर्मदायिन्यै नमः
- ॐ शाङ्कर्यै नमः
- ॐ श्रीकर्यै नमः
- ॐ साध्व्यै नमः
- ॐ शरच्चन्द्रनिभाननायै नमः
- ॐ शातोदर्यै नमः
- ॐ शान्तिमत्यै नमः
- ॐ निराधारायै नमः
- ॐ निरञ्जनायै नमः
- ॐ निर्लेपायै नमः
- ॐ निर्मलायै नमः
- ॐ नित्यायै नमः
- ॐ निराकारायै नमः
- ॐ निराकुलायै नमः
- ॐ निर्गुणायै नमः
- ॐ निष्कलायै नमः
- ॐ शान्तायै नमः
- ॐ निष्कामायै नमः
- ॐ निरुपप्लवायै नमः
- ॐ नित्यमुक्तायै नमः
- ॐ निर्विकारायै नमः
- ॐ निष्प्रपञ्चायै नमः
- ॐ निराश्रयायै नमः
- ॐ नित्यशुद्धायै नमः
- ॐ नित्यबुद्धायै नमः
- ॐ निरवद्यायै नमः
- ॐ निरन्तरायै नमः
- ॐ निष्कारणायै नमः
- ॐ निष्कलङ्कायै नमः
- ॐ निरुपाधये नमः
- ॐ निरीश्वरायै नमः
- ॐ नीरागयै नमः
- ॐ रागमथन्यै नमः
- ॐ निर्मदायै नमः
- ॐ मदनाशिन्यै नमः
- ॐ निश्चिन्तायै नमः
- ॐ निरहङ्कारायै नमः
- ॐ निर्मोहायै नमः
- ॐ मोहनाशिन्यै नमः
- ॐ निर्ममायै नमः
- ॐ ममताहन्त्र्यै नमः
- ॐ निष्पापायै नमः
- ॐ पापनाशिन्यै नमः
- ॐ निष्क्रोधायै नमः
- ॐ क्रोधशमन्यै नमः
- ॐ निर्लोभायै नमः
- ॐ लोभनाशिन्यै नमः
- ॐ निःसंशयायै नमः
- ॐ संशयघ्न्यै नमः
- ॐ निर्भवायै नमः
- ॐ भवनाशिन्यै नमः
- ॐ निर्विकल्पायै नमः
- ॐ निराबाधायै नमः
- ॐ निर्भेदायै नमः
- ॐ भेदनाशिन्यै नमः
- ॐ निर्नाशायै नमः
- ॐ मृत्युमथन्यै नमः
- ॐ निष्क्रियायै नमः
- ॐ निष्परिग्रहायै नमः
- ॐ निस्तुलायै नमः
- ॐ नीलचिकुरायै नमः
- ॐ निरपायायै नमः
- ॐ निरत्ययायै नमः
- ॐ दुर्लभायै नमः
- ॐ दुर्गमायै नमः
- ॐ दुर्गायै नमः
- ॐ दुःखहन्त्र्यै नमः
- ॐ सुखप्रदायै नमः
- ॐ दुष्टदूरायै नमः
- ॐ दुराचारशमन्यै नमः
- ॐ दोषवर्जितायै नमः
- ॐ सर्वज्ञायै नमः
- ॐ सान्द्रकरुणायै नमः
- ॐ समानाधिकवर्जितायै नमः
- ॐ सर्वशक्तिमय्यै नमः
- ॐ सर्वमङ्गलायै नमः
- ॐ सद्गतिप्रदायै नमः
- ॐ सर्वेश्वयै नमः
- ॐ सर्वमय्यै नमः
- ॐ सर्वमन्त्रस्वरूपिण्यै नमः
- ॐ सर्वयन्त्रात्मिकायै नमः
- ॐ सर्वतन्त्ररूपायै नमः
- ॐ मनोन्मन्यै नमः
- ॐ माहेश्वर्यै नमः
- ॐ महादेव्यै नमः
- ॐ महालक्ष्म्यै नमः
- ॐ मृडप्रियायै नमः
- ॐ महारूपायै नमः
- ॐ महापूज्यायै नमः
- ॐ महापातकनाशिन्यै नमः
- ॐ महामायायै नमः
- ॐ महासत्वायै नमः
- ॐ महाशक्त्यै नमः
- ॐ महारत्यै नमः
- ॐ महाभोगायै नमः
- ॐ महैश्वर्यायै नमः
- ॐ महावीर्यायै नमः
- ॐ महाबलायै नमः
- ॐ महाबुद्ध्यै नमः
- ॐ महासिद्ध्यै नमः
- ॐ महायोगेश्वरेश्वर्यै नमः
- ॐ महातन्त्रायै नमः
- ॐ महामन्त्रायै नमः
- ॐ महायन्त्रायै नमः
- ॐ महासनायै नमः
- ॐ महायागक्रमाराध्यायै नमः
- ॐ महाभैरवपूजितायै नमः
- ॐ महेश्वरमहाकल्पमहा ताण्डवसाक्षिण्यै नमः
- ॐ महाकामेशमहिष्यै नमः
- ॐ महात्रिपुरसुन्दर्यै नमः
- ॐ चतुःषष्ट्युपचाराढ्यायै नमः
- ॐ चतुःषष्टिकलामय्यै नमः
- ॐ महाचतुःषष्टिकोटि योगिनीगणसेवितायै नमः
- ॐ मनुविद्यायै नमः
- ॐ चन्द्रविद्यायै नमः
- ॐ चन्द्रमण्डलमध्यगायै नमः
- ॐ चारुरूपायै नमः
- ॐ चारुहासायै नमः
- ॐ चारुचन्द्रकलाधरायै नमः
- ॐ चराचरजगन्नाथायै नमः
- ॐ चक्रराजनिकेतनायै नमः
- ॐ पार्वत्यै नमः
- ॐ पद्मनयनायै नमः
- ॐ पद्मरागसमप्रभायै नमः
- ॐ पञ्चप्रेतासनासीनायै नमः
- ॐ पञ्चब्रह्मस्परूपिण्यै नमः
- ॐ चिन्मय्यै नमः
- ॐ परमानन्दायै नमः
- ॐ विज्ञानघनरूपिण्यै नमः
- ॐ ध्यानध्यातृध्येयरूपायै नमः
- ॐ र्ध्माधर्मविवर्जितायै नमः
- ॐ विश्वरूपायै नमः
- ॐ जागरिण्यै नमः
- ॐ स्वपत्न्यै नमः
- ॐ तैजसात्मिकायै नमः
- ॐ सुप्तायै नमः
- ॐ प्राज्ञात्मिकायै नमः
- ॐ तुर्यायै नमः
- ॐ सर्वावस्थाविवर्जितायै नमः
- ॐ सृष्ठिकर्त्र्यै नमः
- ॐ ब्रह्मरूपायै नमः
- ॐ गोप्त्र्यै नमः
- ॐ गोविन्दरूपिण्यै नमः
- ॐ संहारिण्यै नमः
- ॐ रुद्ररूपायै नमः
- ॐ तिरोधानकर्यै नमः
- ॐ ईश्वर्यै नमः
- ॐ सदाशिवायै नमः
- ॐ अनुग्रहदायै नमः
- ॐ पञ्चकृत्यपरायणायै नमः
- ॐ भानुमण्डलमध्यस्थायै नमः
- ॐ भैरव्यै नमः
- ॐ भगमालिन्यै नमः
- ॐ पद्मासनायै नमः
- ॐ भगवत्यै नमः
- ॐ पद्मनाभसहोदर्यै नमः
- ॐ उन्मेषनिमिषोत्पन्नविपन्नभुवनावल्यै नमः
- ॐ सहस्रशीर्षवदनायै नमः
- ॐ सहस्राक्ष्यै नमः
- ॐ सहस्रपदे नमः
- ॐ आब्रह्मकीटजनन्यै नमः
- ॐ वर्णाश्रमविधायिन्यै नमः
- ॐ निजाज्ञारूपनिगमायै नमः
- ॐ पुण्यापुण्यफलप्रदायै नमः
- ॐ श्रुतिसीमन्तसिन्दूरीकृत पादाब्जधूलिकायै नमः
- ॐ सकलागमसन्दोहशुक्तिसम्पुटमौक्तिकायै नमः
- ॐ पुरुषार्थप्रदायै नमः
- ॐ पूर्णायै नमः
- ॐ भोगिन्यै नमः
- ॐ भुवनेश्वर्यै नमः
- ॐ अम्बिकायै नमः
- ॐ अनादिनिधनायै नमः
- ॐ हरिब्रह्मेन्द्रसेवितायै नमः
- ॐ नारायण्यै नमः
- ॐ नादरूपायै नमः
- ॐ नामरूपविवर्जितायै नमः
- ॐ ह्रीङ्कार्यै नमः
- ॐ ह्रीमत्यै नमः
- ॐ हृद्यायै नमः
- ॐ हेयोपादेयवर्जितायै नमः
- ॐ राजराजार्चितायै नमः
- ॐ राज्ञै नमः
- ॐ रम्यायै नमः
- ॐ राजीवलोचनायै नमः
- ॐ रञ्जन्यै नमः
- ॐ रमण्यै नमः
- ॐ रस्यायै नमः
- ॐ रणत्किङ्किणिमेखलायै नमः
- ॐ रमायै नमः
- ॐ राकेन्दुवदनायै नमः
- ॐ रतिरूपायै नमः
- ॐ रतिप्रियायै नमः
- ॐ रक्षाकर्यै नमः
- ॐ राक्षसघ्न्यै नमः
- ॐ रामायै नमः
- ॐ रमणलम्पटायै नमः
- ॐ काम्यायै नमः
- ॐ कामकलारूपायै नमः
- ॐ कदम्बकुसुमप्रियायै नमः
- ॐ कल्याण्यै नमः
- ॐ जगतीकन्दायै नमः
- ॐ करुणारससागरायै नमः
- ॐ कलावत्यै नमः
- ॐ कलालापायै नमः
- ॐ कान्तायै नमः
- ॐ कादम्बरीप्रियायै नमः
- ॐ वरदायै नमः
- ॐ वामनयनायै नमः
- ॐ वारुणीमदविह्वलायै नमः
- ॐ विश्वाधिकायै नमः
- ॐ वेदवेद्यायै नमः
- ॐ विन्ध्याचलनिवासिन्यै नमः
- ॐ विधात्र्यै नमः
- ॐ वेदजनन्यै नमः
- ॐ विष्णुमायायै नमः
- ॐ विलासिन्यै नमः
- ॐ क्षेत्रस्वरूपायै नमः
- ॐ क्षेत्रेश्यै नमः
- ॐ क्षेत्रक्षेत्रज्ञपालिन्यै नमः
- ॐ क्षयवृद्धिविनिर्मुक्तायै नमः
- ॐ क्षेत्रपालसमर्चितायै नमः
- ॐ विजयायै नमः
- ॐ विमलायै नमः
- ॐ वन्द्यायै नमः
- ॐ वन्दारुजनवत्सलायै नमः
- ॐ वाग्वादिन्यै नमः
- ॐ वामकेश्यै नमः
- ॐ वह्निमण्डलवासिन्यै नमः
- ॐ भक्तिमत्कल्पलतिकायै नमः
- ॐ पशुपाशविमोचिन्यै नमः
- ॐ संहृताशेषपाषण्डायै नमः
- ॐ सदाचारप्रवर्तिकायै नमः
- ॐ तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रिकायै नमः
- ॐ तरुण्यै नमः
- ॐ तापसाराध्यायै नमः
- ॐ तनुमध्यायै नमः
- ॐ तमोपहायै नमः
- ॐ चित्यै नमः
- ॐ तत्पदलक्ष्यार्थायै नमः
- ॐ चिदेकरसरूपिण्यै नमः
- ॐ स्वात्मानन्दलवीभूत-ब्रह्माद्यानन्दसन्तत्यै नमः
- ॐ परायै नमः
- ॐ प्रत्यक् चितीरूपायै नमः
- ॐ पश्यन्त्यै नमः
- ॐ परदेवतायै नमः
- ॐ मध्यमायै नमः
- ॐ वैखरीरूपायै नमः
- ॐ भक्तमानसहंसिकायै नमः
- ॐ कामेश्वरप्राणनाड्यै नमः
- ॐ कृतज्ञायै नमः
- ॐ कामपूजितायै नमः
- ॐ श्रृङ्गाररससम्पूर्णायै नमः
- ॐ जयायै नमः
- ॐ जालन्धरस्थितायै नमः
- ॐ ओड्याणपीठनिलयायै नमः
- ॐ बिन्दुमण्डलवासिन्यै नमः
- ॐ रहोयागक्रमाराध्यायै नमः
- ॐ रहस्तर्पणतर्पितायै नमः
- ॐ सद्यः प्रसादिन्यै नमः
- ॐ विश्वसाक्षिण्यै नमः
- ॐ साक्षिवर्जितायै नमः
- ॐ षडङ्गदेवतायुक्तायै नमः
- ॐ षाड्गुण्यपरिपूरितायै नमः
- ॐ नित्यक्लिन्नायै नमः
- ॐ निरुपमायै नमः
- ॐ निर्वाणसुखदायिन्यै नमः
- ॐ नित्याषोडशिकारूपायै नमः
- ॐ श्रीकण्ठार्धशरीरिण्यै नमः
- ॐ प्रभावत्यै नमः
- ॐ प्रभारूपायै नमः
- ॐ प्रसिद्धायै नमः
- ॐ परमेश्वर्यै नमः
- ॐ मूलप्रकृत्यै नमः
- ॐ अव्यक्तायै नमः
- ॐ व्क्ताव्यक्तस्वरूपिण्यै नमः
- ॐ व्यापिन्यै नमः
- ॐ विविधाकारायै नमः
- ॐ विद्याविद्यास्वरूपिण्यै नमः
- ॐ महाकामेशनयनकुमुदाह्लादकौमुद्यै नमः
- ॐ भक्ताहार्दतमोभेदभानुमद्भानुसन्तत्यै नमः
- ॐ शिवदूत्यै नमः
- ॐ शिवाराध्यायै नमः
- ॐ शिवमूर्त्यै नमः
- ॐ शिवङ्कर्यै नमः
- ॐ शिवप्रियायै नमः
- ॐ शिवपरायै नमः
- ॐ शिष्टेष्टायै नमः
- ॐ शिष्टपूजितायै नमः
- ॐ अप्रमेयायै नमः
- ॐ स्वप्रकाशायै नमः
- ॐ मनोवाचामगोचरायै नमः
- ॐ चिच्छक्त्यै नमः
- ॐ चेतनारूपायै नमः
- ॐ जडशक्त्यै नमः
- ॐ जडात्मिकायै नमः
- ॐ गायत्र्यै नमः
- ॐ व्याहृत्यै नमः
- ॐ सन्ध्यायै नमः
- ॐ द्विजवृन्दनिषेवितायै नमः
- ॐ तत्त्वासनायै नमः
- ॐ तस्मै नमः
- ॐ तुभ्यं नमः
- ॐ अय्यै नमः
- ॐ पञ्चकोशान्तरस्थितायै नमः
- ॐ निःसीममहिम्ने नमः
- ॐ नित्ययौवनायै नमः
- ॐ मदशालिन्यै नमः
- ॐ मदघूर्णितरक्ताक्ष्यै नमः
- ॐ मदपाटलगण्डभुवे नमः
- ॐ चन्दनद्रवदिग्धाङ्ग्यै नमः
- ॐ चाम्पेयकुसुमप्रियायै नमः
- ॐ कुशलायै नमः
- ॐ कोमलाकारायै नमः
- ॐ कुरुकुल्लायै नमः
- ॐ कुलेश्वर्यै नमः
- ॐ कुलकुण्डालयायै नमः
- ॐ कौलमार्गतत्परसेवितायै नमः
- ॐ कुमारगणनाथाम्बायै नमः
- ॐ तुष्ट्यै नमः
- ॐ पुष्ट्यै नमः
- ॐ मत्यै नमः
- ॐ धृत्यै नमः
- ॐ शान्त्यै नमः
- ॐ स्वस्तिमत्यै नमः
- ॐ कान्त्यै नमः
- ॐ नन्दिन्यै नमः
- ॐ विघ्ननाशिन्यै नमः
- ॐ तेजोवत्यै नमः
- ॐ त्रिनयनायै नमः
- ॐ लोलाक्षीकामरूपिण्यै नमः
- ॐ मालिन्यै नमः
- ॐ हंसिन्यै नमः
- ॐ मात्रे नमः
- ॐ मलयाचलवासिन्यै नमः
- ॐ सुमुख्यै नमः
- ॐ नलिन्यै नमः
- ॐ सुभ्रुवे नमः
- ॐ शोभनायै नमः
- ॐ सुरनायिकायै नमः
- ॐ कालकण्ठ्यै नमः
- ॐ कान्तिमत्यै नमः
- ॐ क्षोभिण्यै नमः
- ॐ सूक्ष्मरूपिण्यै नमः
- ॐ वज्रेश्वर्यै नमः
- ॐ वामदेव्यै नमः
- ॐ वयोऽवस्थाविवर्जितायै नमः
- ॐ सिद्धेश्वर्यै नमः
- ॐ सिद्धविद्यायै नमः
- ॐ सिद्धमात्रे नमः
- ॐ यशस्विन्यै नमः
- ॐ विशुद्धिचक्रनिलयायै नमः
- ॐ आरक्तवर्णायै नमः
- ॐ त्रिलोचनायै नमः
- ॐ खट्वाङ्गादिप्रहरणायै नमः
- ॐ वदनैकसमन्वितायै नमः
- ॐ पायसान्नप्रियायै नमः
- ॐ त्वक्स्थायै नमः
- ॐ पशुलोकभयङ्कर्यै नमः
- ॐ अमृतादिमहाशक्तिसंवृतायै नमः
- ॐ डाकिनीश्वर्यै नमः
- ॐ अनाहताब्जनिलयायै नमः
- ॐ श्यामाभायै नमः
- ॐ वदनद्वयायै नमः
- ॐ दंष्ट्रोज्वलायै नमः
- ॐ अक्षमालादिधरायै नमः
- ॐ रुधिरसंस्थितायै नमः
- ॐ कालरात्र्यादिशक्त्यौघवृतायै नमः
- ॐ स्निग्धौदनप्रियायै नमः
- ॐ महावीरेन्द्रवरदायै नमः
- ॐ राकिण्यम्बास्वरूपिण्यै नमः
- ॐ मणिपूराब्जनिलयायै नमः
- ॐ वदनत्रयसंयुतायै नमः
- ॐ वज्राधिकायुधोपेतायै नमः
- ॐ डामर्यादिभिरावृतायै नमः
- ॐ रक्तवर्णायै नमः
- ॐ मांसनिष्ठायै नमः
- ॐ गुडान्नप्रीतमानसायै नमः
- ॐ समस्तभक्तसुखदायै नमः
- ॐ लाकिन्यम्बास्वरूपिण्यै नमः
- ॐ स्वाधिष्टानाम्बुजगतायै नमः
- ॐ चतुर्वक्त्रमनोहरायै नमः
- ॐ शूलाद्यायुधसम्पन्नायै नमः
- ॐ पीतवर्णायै नमः
- ॐ अतिगर्वितायै नमः
- ॐ मेदोनिष्ठायै नमः
- ॐ मधुप्रीतायै नमः
- ॐ बन्दिन्यादिसमन्वितायै नमः
- ॐ दध्यन्नासक्तहृदयायै नमः
- ॐ काकिनीरूपधारिण्यै नमः
- ॐ मूलाधाराम्बुजारूढायै नमः
- ॐ पञ्चवक्त्रायै नमः
- ॐ अस्थिसंस्थितायै नमः
- ॐ अङ्कुशादिप्रहरणायै नमः
- ॐ वरदादि निषेवितायै नमः
- ॐ मुद्गौदनासक्तचित्तायै नमः
- ॐ साकिन्यम्बास्वरूपिण्यै नमः
- ॐ आज्ञाचक्राब्जनिलायै नमः
- ॐ शुक्लवर्णायै नमः
- ॐ षडाननायै नमः
- ॐ मज्जासंस्थायै नमः
- ॐ हंसवतीमुख्यशक्तिसमन्वितायै नमः
- ॐ हरिद्रान्नैकरसिकायै नमः
- ॐ हाकिनीरूपधारिण्यै नमः
- ॐ सहस्रदलपद्मस्थायै नमः
- ॐ सर्ववर्णोपशोभितायै नमः
- ॐ सर्वायुधधरायै नमः
- ॐ शुक्लसंस्थितायै नमः
- ॐ सर्वतोमुख्यै नमः
- ॐ सर्वौदनप्रीतचित्तायै नमः
- ॐ याकिन्यम्बास्वरूपिण्यै नमः
- ॐ स्वाहायै नमः
- ॐ स्वधायै नमः
- ॐ अमत्यै नमः
- ॐ मेधायै नमः
- ॐ श्रुत्यै नमः
- ॐ स्मृत्यै नमः
- ॐ अनुत्तमायै नमः
- ॐ पुण्यकीर्त्यै नमः
- ॐ पुण्यलभ्यायै नमः
- ॐ पुण्यश्रवणकीर्तनायै नमः
- ॐ पुलोमजार्चितायै नमः
- ॐ बन्धमोचन्यै नमः
- ॐ बर्बरालकायै नमः
- ॐ विमर्शरूपिण्यै नमः
- ॐ विद्यायै नमः
- ॐ वियदादिजगत्प्रसुवे नमः
- ॐ सर्व व्याधिप्रशमन्यै नमः
- ॐ सर्व मृत्युनिवारिण्यै नमः
- ॐ अग्रगण्यायै नमः
- ॐ अचिन्त्यरूपायै नमः
- ॐ कलिकल्मषनाशिन्यै नमः
- ॐ कात्यायन्यै नमः
- ॐ कालहन्त्र्यै नमः
- ॐ कमलाक्षनिषेवितायै नमः
- ॐ ताम्बूलपूरितमुख्यै नमः
- ॐ दाडिमीकुसुमप्रभायै नमः
- ॐ मृगाक्ष्यै नमः
- ॐ मोहिन्यै नमः
- ॐ मुख्यायै नमः
- ॐ मृडान्यै नमः
- ॐ मित्ररूपिण्यै नमः
- ॐ नित्यतृप्तायै नमः
- ॐ भक्तनिधये नमः
- ॐ नियन्त्र्यै नमः
- ॐ निखिलेश्वर्यै नमः
- ॐ मैत्र्यादिवासनालभ्यायै नमः
- ॐ महाप्रलयसाक्षिण्यै नमः
- ॐ पराशक्त्यै नमः
- ॐ परानिष्ठायै नमः
- ॐ प्रज्ञानघनरूपिण्यै नमः
- ॐ माध्वीपानालसायै नमः
- ॐ मत्तायै नमः
- ॐ मातृकावर्ण रूपिण्यै नमः
- ॐ महाकैलासनिलयायै नमः
- ॐ मृणालमृदुदोर्लतायै नमः
- ॐ महनीयायै नमः
- ॐ दयामूर्त्यै नमः
- ॐ महासाम्राज्यशालिन्यै नमः
- ॐ आत्मविद्यायै नमः
- ॐ महाविद्यायै नमः
- ॐ श्रीविद्यायै नमः
- ॐ कामसेवितायै नमः
- ॐ श्रीषोडशाक्षरीविद्यायै नमः
- ॐ त्रिकूटायै नमः
- ॐ कामकोटिकायै नमः
- ॐ कटाक्षकिङ्करीभूतकमलाकोटिसेवितायै नमः
- ॐ शिरःस्थितायै नमः
- ॐ चन्द्रनिभायै नमः
- ॐ भालस्थायैऐ नमः
- ॐ इन्द्रधनुःप्रभायै नमः
- ॐ हृदयस्थायै नमः
- ॐ रविप्रख्यायै नमः
- ॐ त्रिकोणान्तरदीपिकायै नमः
- ॐ दाक्षायण्यै नमः
- ॐ दैत्यहन्त्र्यै नमः
- ॐ दक्षयज्ञविनाशिन्यै नमः
- ॐ दरान्दोलितदीर्घाक्ष्यै नमः
- ॐ दरहासोज्ज्वलन्मुख्यै नमः
- ॐ गुरूमूर्त्यै नमः
- ॐ गुणनिधये नमः
- ॐ गोमात्रे नमः
- ॐ गुहजन्मभुवे नमः
- ॐ देवेश्यै नमः
- ॐ दण्डनीतिस्थायै नमः
- ॐ दहराकाशरूपिण्यै नमः
- ॐ प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजितायै नमः
- ॐ कलात्मिकायै नमः
- ॐ कलानाथायै नमः
- ॐ काव्यालापविमोदिन्यै नमः
- ॐ सचामररमावाणीसव्यदक्षिणसेवितायै नमः
- ॐ आदिशक्तयै नमः
- ॐ अमेयायै नमः
- ॐ आत्मने नमः
- ॐ परमायै नमः
- ॐ पावनाकृतये नमः
- ॐ अनेककोटिब्रह्माण्डजनन्यै नमः
- ॐ दिव्यविग्रहायै नमः
- ॐ क्लीङ्कार्यै नमः
- ॐ केवलायै नमः
- ॐ गुह्यायै नमः
- ॐ कैवल्यपददायिन्यै नमः
- ॐ त्रिपुरायै नमः
- ॐ त्रिजगद्वन्द्यायै नमः
- ॐ त्रिमूर्त्यै नमः
- ॐ त्रिदशेश्वर्यै नमः
- ॐ त्र्यक्षर्यै नमः
- ॐ दिव्यगन्धाढ्यायै नमः
- ॐ सिन्दूरतिलकाञ्चितायै नमः
- ॐ उमायै नमः
- ॐ शैलेन्द्रतनयायै नमः
- ॐ गौर्यै नमः
- ॐ गन्धर्वसेवितायै नमः
- ॐ विश्वगर्भायै नमः
- ॐ स्वर्णगर्भायै नमः
- ॐ अवरदायै नमः
- ॐ वागधीश्वर्यै नमः
- ॐ ध्यानगम्यायै नमः
- ॐ अपरिच्छेद्यायै नमः
- ॐ ज्ञानदायै नमः
- ॐ ज्ञानविग्रहायै नमः
- ॐ सर्ववेदान्तसंवेद्यायै नमः
- ॐ सत्यानन्दस्वरूपिण्यै नमः
- ॐ लोपामुद्रार्चितायै नमः
- ॐ लीलाक्लृप्तब्रह्माण्डमण्डलायै नमः
- ॐ अदृश्यायै नमः
- ॐ दृश्यरहितायै नमः
- ॐ विज्ञात्र्यै नमः
- ॐ वेद्यवर्जितायै नमः
- ॐ योगिन्यै नमः
- ॐ योगदायै नमः
- ॐ योग्यायै नमः
- ॐ योगानन्दायै नमः
- ॐ युगन्धरायै नमः
- ॐ इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिण्यै नमः
- ॐ सर्वाधारायै नमः
- ॐ सुप्रतिष्ठायै नमः
- ॐ सदसद्रूपधारिण्यै नमः
- ॐ अष्टमूर्त्यै नमः
- ॐ अजाजैत्र्यै नमः
- ॐ लोकयात्राविधायिन्यै नमः
- ॐ एकाकिन्यै नमः
- ॐ भूमरूपायै नमः
- ॐ निद्वैतायै नमः
- ॐ द्वैतवर्जितायै नमः
- ॐ अन्नदायै नमः
- ॐ वसुदायै नमः
- ॐ वृद्धायै नमः
- ॐ ब्रह्मात्मैक्यस्वरूपिण्यै नमः
- ॐ बृहत्यै नमः
- ॐ ब्राह्मण्यै नमः
- ॐ ब्राह्मयै नमः
- ॐ ब्रह्मानन्दायै नमः
- ॐ बलिप्रियायै नमः
- ॐ भाषारूपायै नमः
- ॐ बृहत्सेनायै नमः
- ॐ भावाभावविर्जितायै नमः
- ॐ सुखाराध्यायै नमः
- ॐ शुभकर्यै नमः
- ॐ शोभनासुलभागत्यै नमः
- ॐ राजराजेश्वर्यै नमः
- ॐ राज्यदायिन्यै नमः
- ॐ राज्यवल्लभायै नमः
- ॐ राजत्कृपायै नमः
- ॐ राजपीठनिवेशितनिजाश्रितायै नमः
- ॐ राज्यलक्ष्म्यै नमः
- ॐ कोशनाथायै नमः
- ॐ चतुरङ्गबलेश्वर्यै नमः
- ॐ साम्राज्यदायिन्यै नमः
- ॐ सत्यसन्धायै नमः
- ॐ सागरमेखलायै नमः
- ॐ दीक्षितायै नमः
- ॐ दैत्यशमन्यै नमः
- ॐ सर्वलोकवंशकर्यै नमः
- ॐ सर्वार्थदात्र्यै नमः
- ॐ सावित्र्यै नमः
- ॐ सच्चिदानन्दरूपिण्यै नमः
- ॐ देशकालापरिच्छिन्नायै नमः
- ॐ सर्वगायै नमः
- ॐ सर्वमोहिन्यै नमः
- ॐ सरस्वत्यै नमः
- ॐ शास्त्रमय्यै नमः
- ॐ गुहाम्बायै नमः
- ॐ गुह्यरूपिण्यै नमः
- ॐ सर्वोपाधिविनिर्मुक्तायै नमः
- ॐ सदाशिवपतिव्रतायै नमः
- ॐ सम्प्रदायेश्वर्यै नमः
- ॐ साधुने नमः
- ॐ यै नमः
- ॐ गुरूमण्डलरूपिण्यै नमः
- ॐ कुलोत्तीर्णायै नमः
- ॐ भगाराध्यायै नमः
- ॐ मायायै नमः
- ॐ मधुमत्यै नमः
- ॐ मह्यै नमः
- ॐ गणाम्बायै नमः
- ॐ गुह्यकाराध्यायै नमः
- ॐ कोमलाङ्ग्यै नमः
- ॐ गुरुप्रियायै नमः
- ॐ स्वतन्त्रायै नमः
- ॐ सर्वतन्त्रेश्यै नमः
- ॐ दक्षिणामूर्तिरूपिण्यै नमः
- ॐ सनकादिसमाराध्यायै नमः
- ॐ शिवज्ञानप्रदायिन्यै नमः
- ॐ चित्कलायै नमः
- ॐ आनन्दकलिकायै नमः
- ॐ प्रेमरूपायै नमः
- ॐ प्रियङ्कर्यै नमः
- ॐ नामपारायणप्रीतायै नमः
- ॐ नन्दिविद्यायै नमः
- ॐ नटेश्वर्यै नमः
- ॐ मिथ्याजगदधिष्ठानायै नमः
- ॐ मुक्तिदायै नमः
- ॐ मुक्तिरूपिण्यै नमः
- ॐ लास्यप्रियायै नमः
- ॐ लयकर्यै नमः
- ॐ लज्जायै नमः
- ॐ रम्भादिवन्दितायै नमः
- ॐ भवदावसुधावृष्ट्यै नमः
- ॐ पापारण्यदवानलायै नमः
- ॐ दौर्भाग्यतूलवातूलायै नमः
- ॐ जराध्वान्तरविप्रभायै नमः
- ॐ भाग्याब्धिचन्द्रिकायै नमः
- ॐ भक्तचित्तकेकिघनाघनायै नमः
- ॐ रोगपर्वतदम्भोलये नमः
- ॐ मृत्युदारुकुठारिकायै नमः
- ॐ महेश्वर्यै नमः
- ॐ महाकाल्यै नमः
- ॐ महाग्रासायै नमः
- ॐ महाशनायै नमः
- ॐ अपर्णायै नमः
- ॐ चण्डिकायै नमः
- ॐ चण्डमुण्डासुरनिषूदिन्यै नमः
- ॐ क्षराक्षरात्मिकायै नमः
- ॐ सर्वलोकेश्यै नमः
- ॐ विश्वधारिण्यै नमः
- ॐ त्रिवर्गदात्र्यै नमः
- ॐ सुभगायै नमः
- ॐ त्र्यम्बकायै नमः
- ॐ त्रिगुणात्मिकायै नमः
- ॐ स्वर्गापवर्गदायै नमः
- ॐ शुद्धायै नमः
- ॐ जपापुष्पनिभाकृतये नमः
- ॐ ओजोवत्यै नमः
- ॐ द्युतिधरायै नमः
- ॐ यज्ञरूपायै नमः
- ॐ प्रियव्रतायै नमः
- ॐ दुराराध्यायै नमः
- ॐ दुराधर्षायै नमः
- ॐ पाटलीकुसुमप्रियायै नमः
- ॐ महत्यै नमः
- ॐ मेरुनिलयायै नमः
- ॐ मन्दारकुसुमप्रियायै नमः
- ॐ वीराराध्यायै नमः
- ॐ विराड्रूपायै नमः
- ॐ विरजसे नमः
- ॐ विश्वतोमुख्यै नमः
- ॐ प्रत्यग्रूपायै नमः
- ॐ पराकाशायै नमः
- ॐ प्राणदायै नमः
- ॐ प्राणरूपिण्यै नमः
- ॐ मार्ताण्डभैरवाराध्यायै नमः
- ॐ मन्त्रिणीन्यस्तराज्यधुरे नमः
- ॐ त्रिपुरेश्यै नमः
- ॐ जयत्सेनायै नमः
- ॐ निस्त्रैगुण्यायै नमः
- ॐ परापरायै नमः
- ॐ सत्यज्ञानानन्दरूपायै नमः
- ॐ सामरस्यपरायणायै नमः
- ॐ कपर्दिन्यै नमः
- ॐ कलामालायै नमः
- ॐ कामदुघे नमः
- ॐ कामरूपिण्यै नमः
- ॐ कलानिधये नमः
- ॐ काव्यकलायै नमः
- ॐ रसज्ञायै नमः
- ॐ रसशेवधये नमः
- ॐ पुष्टायै नमः
- ॐ पुरातनायै नमः
- ॐ पूज्यायै नमः
- ॐ पुष्करायै नमः
- ॐ पुष्करेक्षणायै नमः
- ॐ परस्मै ज्योतिषे नमः
- ॐ परस्मै धाम्ने नमः
- ॐ परमाणवे नमः
- ॐ परात्परायै नमः
- ॐ पाशहस्तायै नमः
- ॐ पाशहन्त्र्यै नमः
- ॐ परमन्त्रविभेदिन्यै नमः
- ॐ मूर्तायै नमः
- ॐ अमूर्तायै नमः
- ॐ अनित्यतृप्तायै नमः
- ॐ मुनिमानसहंसिकायै नमः
- ॐ सत्यव्रतायै नमः
- ॐ सत्यरूपायै नमः
- ॐ सर्वान्तर्यामिण्यै नमः
- ॐ सत्यै नमः
- ॐ ब्रह्माण्यै नमः
- ॐ ब्रह्मणे नमः
- ॐ जनन्यै नमः
- ॐ बहुरूपायै नमः
- ॐ बुधार्चितायै नमः
- ॐ प्रसवित्र्यै नमः
- ॐ प्रचण्डायै नमः
- ॐ आज्ञायै नमः
- ॐ प्रतिष्ठायै नमः
- ॐ प्रकटाकृतये नमः
- ॐ प्राणेश्वर्यै नमः
- ॐ प्राणदात्र्यै नमः
- ॐ पञ्चाशत्पीठरूपिण्यै नमः
- ॐ विश्रृङ्खलायै नमः
- ॐ विविक्तस्थायै नमः
- ॐ वीरमात्रे नमः
- ॐ वियत्प्रसुवे नमः
- ॐ मुकुन्दायै नमः
- ॐ मुक्तिनिलयायै नमः
- ॐ मूलविग्रहरूपिण्यै नमः
- ॐ भावज्ञायै नमः
- ॐ भवरोगध्न्यै नमः
- ॐ भवचक्रप्रवर्तिन्यै नमः
- ॐ छन्दःसारायै नमः
- ॐ शास्त्रसारायै नमः
- ॐ मन्त्रसारायै नमः
- ॐ तलोदर्यै नमः
- ॐ उदारकीर्तये नमः
- ॐ उद्दामवैभवायै नमः
- ॐ वर्णरूपिण्यै नमः
- ॐ जन्ममृत्युजरातप्तजनविश्रान्तिदायिन्यै नमः
- ॐ सर्वोपनिषदुद् घुष्टायै नमः
- ॐ शान्त्यतीतकलात्मिकायै नमः
- ॐ गम्भीरायै नमः
- ॐ गगनान्तःस्थायै नमः
- ॐ गर्वितायै नमः
- ॐ गानलोलुपायै नमः
- ॐ कल्पनारहितायै नमः
- ॐ काष्ठायै नमः
- ॐ अकान्तायै नमः
- ॐ कान्तार्धविग्रहायै नमः
- ॐ कार्यकारणनिर्मुक्तायै नमः
- ॐ कामकेलितरङ्गितायै नमः
- ॐ कनत्कनकताटङ्कायै नमः
- ॐ लीलाविग्रहधारिण्यै नमः
- ॐ अजायै नमः
- ॐ क्षयविनिर्मुक्तायै नमः
- ॐ मुग्धायै नमः
- ॐ क्षिप्रप्रसादिन्यै नमः
- ॐ अन्तर्मुखसमाराध्यायै नमः
- ॐ बहिर्मुखसुदुर्लभायै नमः
- ॐ त्रय्यै नमः
- ॐ त्रिवर्गनिलयायै नमः
- ॐ त्रिस्थायै नमः
- ॐ त्रिपुरमालिन्यै नमः
- ॐ निरामयायै नमः
- ॐ निरालम्बायै नमः
- ॐ स्वात्मारामायै नमः
- ॐ सुधासृत्यै नमः
- ॐ संसारपङ्कनिर्मग्नसमुद्धरणपण्डितायै नमः
- ॐ यज्ञप्रियायै नमः
- ॐ यज्ञकर्त्र्यै नमः
- ॐ यजमानस्वरूपिण्यै नमः
- ॐ धर्माधारायै नमः
- ॐ धनाध्यक्षायै नमः
- ॐ धनधान्यविवर्धिन्यै नमः
- ॐ विप्रप्रियायै नमः
- ॐ विप्ररूपायै नमः
- ॐ विश्वभ्रमणकारिण्यै नमः
- ॐ विश्वग्रासायै नमः
- ॐ विद्रुमाभायै नमः
- ॐ वैष्णव्यै नमः
- ॐ विष्णुरूपिण्यै नमः
- ॐ अयोन्यै नमः
- ॐ योनिनिलयायै नमः
- ॐ कूटस्थायै नमः
- ॐ कुलरूपिण्यै नमः
- ॐ वीरगोष्ठीप्रियायै नमः
- ॐ वीरायै नमः
- ॐ नैष्कर्म्यायै नमः
- ॐ नादरूपिण्यै नमः
- ॐ विज्ञानकलनायै नमः
- ॐ कल्यायै नमः
- ॐ विदग्धायै नमः
- ॐ बैन्दवासनायै नमः
- ॐ तत्वाधिकायै नमः
- ॐ तत्वमय्यै नमः
- ॐ तत्वमर्थस्वरूपिण्यै नमः
- ॐ सामगानप्रियायै नमः
- ॐ सौम्यायै नमः
- ॐ सदाशिवकुटुम्बिन्यै नमः
- ॐ सव्यापसव्यमार्गस्थायै नमः
- ॐ सर्वापद्विनिवारिण्यै नमः
- ॐ स्वस्थायै नमः
- ॐ स्वभावमधुरायै नमः
- ॐ धीरायै नमः
- ॐ धीरसमर्चितायै नमः
- ॐ चैतन्यार्घ्यसमाराध्यायै नमः
- ॐ चैतन्यकुसुमप्रियायै नमः
- ॐ सदोदितायै नमः
- ॐ सदातुष्ठायै नमः
- ॐ तरुणादित्यपाटलायै नमः
- ॐ दक्षिणादक्षिणाराध्यायै नमः
- ॐ दरस्मेरमुखाम्बुजायै नमः
- ॐ कौलिनीकेवलायै नमः
- ॐ अनर्ध्य कैवल्यपददायिन्यै नमः
- ॐ स्तोत्रप्रियायै नमः
- ॐ स्तुतिमत्यै नमः
- ॐ श्रुतिसंस्तुतवैभवायै नमः
- ॐ मनस्विन्यै नमः
- ॐ मानवत्यै नमः
- ॐ महेश्यै नमः
- ॐ मङ्गलाकृत्ये नमः
- ॐ विश्वमात्रे नमः
- ॐ जगद्धात्र्यै नमः
- ॐ विशालाक्ष्यै नमः
- ॐ विरागिण्यै नमः
- ॐ प्रगल्भायै नमः
- ॐ परमोदारायै नमः
- ॐ परामोदायै नमः
- ॐ मनोमय्यै नमः
- ॐ व्योमकेश्यै नमः
- ॐ विमानस्थायै नमः
- ॐ वज्रिण्यै नमः
- ॐ वामकेश्वर्यै नमः
- ॐ पञ्चयज्ञप्रियायै नमः
- ॐ पञ्चप्रेतमञ्चाधिशायिन्यै नमः
- ॐ पञ्चम्यै नमः
- ॐ पञ्चभूतेश्यै नमः
- ॐ पञ्चसङ्ख्योपचारिण्यै नमः
- ॐ शाश्वत्यै नमः
- ॐ शाश्वतैश्वर्यायै नमः
- ॐ शर्मदायै नमः
- ॐ शम्भुमोहिन्यै नमः
- ॐ धरायै नमः
- ॐ धरसुतायै नमः
- ॐ धन्यायै नमः
- ॐ धर्मिण्यै नमः
- ॐ धर्मवर्धिन्यै नमः
- ॐ लोकातीतायै नमः
- ॐ गुणातीतायै नमः
- ॐ सर्वातीतायै नमः
- ॐ शामात्मिकायै नमः
- ॐ बन्धूककुसुमप्रख्यायै नमः
- ॐ बालायै नमः
- ॐ लीलाविनोदिन्यै नमः
- ॐ सुमङ्गल्यै नमः
- ॐ सुखकर्यै नमः
- ॐ सुवेषाढ्यायै नमः
- ॐ सुवासिन्यै नमः
- ॐ सुवासिन्यर्चनप्रीतायै नमः
- ॐ आशोभनायै नमः
- ॐ शुद्धमानसायै नमः
- ॐ बिन्दुतर्पणसन्तुष्टायै नमः
- ॐ पूर्वजायै नमः
- ॐ त्रिपुराम्बिकायै नमः
- ॐ दशमुद्रासमाराध्यायै नमः
- ॐ त्रिपुराश्रीवशङ्कर्यै नमः
- ॐ ज्ञानमुद्रायै नमः
- ॐ ज्ञानगम्यायै नमः
- ॐ ज्ञानज्ञेयस्वरूपिण्यै नमः
- ॐ योनिमुद्रायै नमः
- ॐ त्रिखण्डेश्यै नमः
- ॐ त्रिगुणायै नमः
- ॐ अम्बायै नमः
- ॐ त्रिकोणगायै नमः
- ॐ अनघायै नमः
- ॐ अद्भुतचारित्रायै नमः
- ॐ वाञ्छितार्थप्रदायिन्यै नमः
- ॐ अभ्यासातिशयज्ञातायै नमः
- ॐ षडध्वातीतरूपिण्यै नमः
- ॐ अव्याजकरुणामूर्तये नमः
- ॐ अज्ञानध्वान्तदीपिकायै नमः
- ॐ आबालगोपविदितायै नमः
- ॐ सर्वानुल्लङ्घ्यशासनायै नमः
- ॐ श्रीचक्रराजनिलयायै नमः
- ॐ श्रीमत्त्रिपुरसुन्दर्यै नमः
- ॐ श्रीशिवायै नमः
- ॐ शिवशक्त्यैक्यरूपिण्यै नमः
- ॐ ललिताम्बिकायै नमः
॥ ॐ तत्सत् ब्रह्मार्पणमस्तु ॥
॥ इति श्रीललितसहस्रनामावलिः सम्पूर्णा ॥