षोडशोपचार पूजा
षोडश उपचाराः
इष्ट देवता ध्यानम्
इष्टदेवतां ध्यायेत् । इष्टदेवताया ध्यानश्लोकं पठेत् ।
ॐ श्री इष्ट देवतायै नमः ।
ध्यायामि । ध्यानं समर्पयामि ॥
आवाहनम्
ॐ श्री इष्ट देवतायै नमः ।
आवाहयामि । स्थापयामि । पूजयामि ॥
आसनम्
रत्नसिंहासनं चारु प्रीत्यर्थं प्रतिगृह्यताम् ।
ॐ श्री इष्ट देवतायै नमः ।
आसनं समर्पयामि ॥
पाद्यम्
पाद्यं गृहाण देवेश पावनं पुण्य वर्धनम् ।
ॐ श्री इष्ट देवतायै नमः ।
पादयोः पाद्यं समर्पयामि ॥
अर्घ्यम्
गन्ध-पुष्पाक्षतैर्युक्तं अर्घ्यं भक्त्या निवेदितम् ।
ॐ श्री इष्ट देवतायै नमः ।
हस्तयोः अर्घ्यं समर्पयामि ॥
आचमनीयम्
मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् ।
तदिदं कल्पितं देव सम्यगाचम्यतां प्रभो ॥
ॐ श्री इष्ट देवतायै नमः ।
मुखे आचमनीयं समर्पयामि ॥
स्नानम्
आपो हिष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
महे रणाय चक्षसे ॥
यो वः शिवतमो रसस्तस्य भाजयतेह नः ।
उशतीरिव मातरः ॥
तस्मा अर-ङ्गमाम वो यस्य क्षयाय जिन्वथ ।
आपो जनयथा च नः ॥
ॐ श्री इष्ट देवतायै नमः ।
शुद्धोदक स्नानं समर्पयामि ॥
स्नानानन्तरं आचमनीयं समर्पयामि ॥
वस्त्रम्
वस्त्रयुग्मं च दिव्यं च शोभनं प्रीति वर्धनम् ।
ॐ श्री इष्ट देवतायै नमः ।
वस्त्रं समर्पयामि ॥
यज्ञोपवीतम्
यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥
ॐ श्री इष्ट देवतायै नमः ।
यज्ञोपवीतं समर्पयामि ॥
गन्धम्
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम् ॥
ॐ श्री इष्ट देवतायै नमः ।
गन्धं समर्पयामि ॥
अर्चन
अक्षतान् धवलान् दिव्यान् पुष्पाणि च सुगन्धीनि ।
भक्त्या दत्तानि गृह्यन्तां सर्वदेवाः प्रसीदत ॥
इष्टदेवताया नामानि पठेत् । प्रत्येकनाम्ने पुष्पम् अक्षतान् वा समर्पयेत् ।
श्री विष्णु अष्टोत्तर शत नामावली
सुब्रह्मण्य अष्टोत्तर शत नामावली
अथवा इष्ट देवता नामावली पठनम् ॥
ॐ श्री इष्ट देवतायै नमः ।
अष्टोत्तर शत नामावली पूजां समर्पयामि ।
अक्षतान् पुष्पाणि च समर्पयामि ॥
धूपम्
वनस्पत्युद्भवैर्दिव्यैः नानागन्धैः सुसंयुतः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
ॐ श्री इष्ट देवतायै नमः ।
धूपमाघ्रापयामि ॥
दीपम्
साज्यं त्रिवर्ति संयुक्तं वह्निना योजितं प्रियम् ।
गृहाण मङ्गलं दीपं त्रैलोक्य तिमिरापहम् ॥
ॐ श्री इष्ट देवतायै नमः ।
दीपं दर्शयामि ॥
नैवेद्यम्
नैवेद्यं गृह्यतां देव भक्त्या सम्पादितं मया ।
इदं फलं च पानीयं सर्वोपचार संयुतम् ॥
ओ-म्भूर्भुवस्सुवः । तत्सवितुर्वरेण्य-म्भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि ।
अमृतमस्तु । अमृतोपस्तरणमसि ।
ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा ।
ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा ।
मध्ये मध्ये पानीयं समर्पयामि ।
अमृतापिधानमसि ।
उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ॥
ॐ श्री इष्ट देवतायै नमः ।
नैवेद्यं समर्पयामि ॥
ताम्बूलम्
पूगीफलश्च कर्पूरैः नागवल्लीदलैर्युतम् ।
मुक्ताचूर्ण संयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ॐ श्री इष्ट देवतायै नमः ।
ताम्बूलं समर्पयामि ॥
नीराजनम्
नानादीपसमायुक्तं नीराजनं मनोहरम् ।
अज्ञान तिमिर ध्वंसि गृह्यतां भक्तिपूर्वकम् ॥
ॐ श्री इष्ट देवतायै नमः ।
नीराजनं समर्पयामि ॥
समापन प्रार्थना
मन्त्रपुष्पम्
यो-ऽपा-म्पुष्पं-वेँद । पुष्पवा-न्प्रजावा-न्पशुमा-न्भवति ।
चन्द्रमा वा अपा-म्पुष्पम् ।
पुष्पवा-न्प्रजावा-न्पशुमा-न्भवति ।
य एवं-वेँद ॥
ॐ श्री इष्ट देवतायै नमः ।
मन्त्रपुष्पं समर्पयामि ॥
प्रदक्षिणम्
यानि कानि च पापानि जन्मान्तर कृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
ॐ श्री इष्ट देवतायै नमः ।
प्रदक्षिण नमस्कारान् समर्पयामि ॥
नमस्कारः
उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोऽष्टाङ्ग उच्यते ॥
ॐ श्री इष्ट देवतायै नमः ।
नमस्कारान् समर्पयामि ॥
सर्वोपचाराः
ॐ श्री इष्ट देवतायै नमः ।
छत्रं समर्पयामि ।
चामरं समर्पयामि ।
गीतं श्रावयामि ।
नृत्यं दर्शयामि ।
समस्त राजोपचारान् देवोपचारान् समर्पयामि ॥
क्षमाप्रार्थना
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि ॥
अनया ध्यान-आवाहनादि-षोडशोपचार पूजया श्री इष्ट देवता सुप्रीता सुप्रसन्ना वरदा भवतु ॥
उद्वासनम्
ॐ श्री इष्ट देवतायै नमः ।
यथास्थानं उद्वासयामि ।
शोभनार्थे क्षेमाय पुनरागमनाय च ॥
प्रसाद ग्रहणम्
अकालमृत्युहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं देवता पादोदकं शुभम् ॥
श्री इष्ट देवता प्रसादं शिरसा गृह्णामि ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ तत्सत् ब्रह्मार्पणमस्तु ॥