Home › Pooja Library › Shiva Nitya Puja Vidhanam — हिंदी

शिव नित्य पूजा विधानम्

आवश्यकानि वस्तूनि

  • आसनं
  • दीपः
  • गन्धः
  • कुङ्कुमं
  • अक्षताः
  • पुष्पाणि
  • धूपः
  • नैवेद्यं
  • ताम्बूलं
  • आचमनीयं
  • पूजा पात्रं
  • कलशः
  • शङ्खः (ऐच्छिकः)
  • शिव प्रतिमा वा शिवलिङ्गं वा चित्रपटः वा

पूर्वाङ्ग पूजा

श्रीमहागणाधिपतये नमः ।
श्री गुरुभ्यो नमः ।
हरिः ओम् ।

शुचिः

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥
पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्षाय नमः ॥

प्रार्थना

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
अगजानन पद्मार्कं गजाननमहर्निशम् ।
अनेकदं तं भक्तानां एकदन्तमुपास्महे ॥
तदेव लग्नं सुदिनं तदेव
ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव
लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥
सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु ते ॥
श्रीलक्ष्मीनारायणाभ्यां नमः ।
उमामहेश्वराभ्यां नमः ।
वाणीहिरण्यगर्भाभ्यां नमः ।
शचीपुरन्दराभ्यां नमः ।
अरुन्धतीवसिष्ठाभ्यां नमः ।
श्रीसीतारामाभ्यां नमः ।
मातापितृभ्यो नमः ।
सर्वेभ्यो महाजनेभ्यो नमः ।

आचमनं

ॐ केशवाय स्वाहा ।
ॐ नारायणाय स्वाहा ।
ॐ माधवाय स्वाहा ।
ॐ गोविन्दाय नमः ।
ॐ विष्णवे नमः ।
ॐ मधुसूदनाय नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ वामनाय नमः ।
ॐ श्रीधराय नमः ।
ॐ हृषीकेशाय नमः ।
ॐ पद्मनाभाय नमः ।
ॐ दामोदराय नमः ।
ॐ सङ्कर्षणाय नमः ।
ॐ वासुदेवाय नमः ।
ॐ प्रद्युम्नाय नमः ।
ॐ अनिरुद्धाय नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ अधोक्षजाय नमः ।
ॐ नारसिंहाय नमः ।
ॐ अच्युताय नमः ।
ॐ जनार्दनाय नमः ।
ॐ उपेन्द्राय नमः ।
ॐ हरये नमः ।
ॐ श्रीकृष्णाय नमः ।

दीपाराधनम्

दीपस्त्वं ब्रह्मरूपोऽसि ज्योतिषां प्रभुरव्ययः ।
सौभाग्यं देहि पुत्रांश्च सर्वान्कामांश्च देहि मे ॥
भो दीप देवि रूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत् ।
यावत्पूजां करिष्यामि तावत्त्वं सुस्थिरो भव ॥
दीपाराधन मुहूर्तः सुमुहूर्तोऽस्तु ॥

भूतोच्चाटनम्

उत्तिष्ठन्तु भूतपिशाचाः य एते भूमिभारकाः ।
एतेषामविरोधेन ब्रह्मकर्म समारभे ॥
अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ।
ये भूता विघ्नकर्तारस्ते गच्छन्तु शिवाऽज्ञया ॥

प्राणायामः

ओ-म्भूः । ओ-म्भुवः । ओग्ं सुवः । ओ-म्महः । ओ-ञ्जनः । ओ-न्तपः । ओग्ं सत्यम् ।
ओ-न्तत्सवितुर्वरेण्य-म्भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥
ओमापो ज्योती रसो-ऽमृत-म्ब्रह्म भूर्भुवस्सुवरोम् ॥

सङ्कल्पः

मम उपात्त समस्त दुरितक्षय द्वारा, मम/अस्माकं सहकुटुम्बस्य क्षेम-स्थैर्य-धैर्य-वीर्य-विजय-अभय-आयुः-आरोग्य-ऐश्वर्य-अभिवृद्ध्यर्थं, धर्मार्थ-काम-मोक्ष-चतुर्विध-पुरुषार्थ-फल-सिद्ध्यर्थं, सर्वाभीष्ट-सिद्ध्यर्थं, श्रीपरमेश्वर-प्रीत्यर्थं, यावच्छक्ति ध्यान-आवाहनादि-षोडशोपचार-पूजां करिष्ये ॥
तदङ्ग कलशाराधनं करिष्ये ॥

कलशाराधनम्

कलशे गन्ध पुष्पाक्षतैरभ्यर्च्य ।
कलशे उदकं पूरयित्वा ।
कलशस्योपरि हस्तं निधाय ।
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ।
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा ।
ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः ॥
अङ्गैश्च सहिताः सर्वे कलशाम्बु समाश्रिताः ॥
गङ्गे च यमुने चैव गोदावरी सरस्वती ।
नर्मदे सिन्धु कावेरी जलेऽस्मिन् सन्निधिं कुरु ॥
कावेरी तुङ्गभद्रा च कृष्णवेणी च गौतमी ।
भागीरथीति विख्याताः पञ्चगङ्गाः प्रकीर्तिताः ॥
आयान्तु देवपूजार्थं मम दुरितक्षयकारकाः ।
कलशोदकेन पूजा द्रव्याणि सम्प्रोक्ष्य, देवं सम्प्रोक्ष्य, आत्मानं च सम्प्रोक्ष्य ॥

शङ्खपूजा

शङ्खं चन्द्रार्क दैवतं मध्ये वरुण देवताम् ।
पृष्ठे प्रजापतिं विन्द्यादग्रे गङ्गा सरस्वतीम् ॥
त्रैलोक्ये यानि तीर्थानि वासुदेवस्य आज्ञया ।
शङ्खे तिष्ठन्तु विप्रेन्द्राः तस्मात् शङ्खं प्रपूजयेत् ॥
ॐ शङ्खाय नमः ।
ॐ धवलाय नमः ।
ॐ पाञ्चजन्याय नमः ।
ॐ शङ्खदेवताभ्यो नमः ।
सकलपूजार्थे अक्षतान् समर्पयामि ॥

घण्टानादः

आगमार्थं तु देवानां गमनार्थं तु राक्षसाम् ।
घण्टारवं करोम्यादौ देवताह्वान लाञ्छनम् ॥
ॐ घण्टादेवताभ्यो नमः ।
सकलोपचार पूजार्थे अक्षतान् समर्पयामि ॥

श्री महागणपति पूजा

ओ-ङ्गणाना-न्त्वा गणपतिग्ं हवामहे कवि-ङ्कवीनां उपमश्रवस्तवम् ।
ज्येष्ठराज-म्ब्रह्मणा-म्ब्रह्मणस्पत आ नः शृण्वन्नूतिभिस्सीद सादनम् ॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥
धूमकेतुर्गणाध्यक्षः फालचन्द्रो गजाननः ।
वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः ॥
ॐ श्रीमहागणपतये नमः ।
ध्यायामि । आवाहयामि । आसनं समर्पयामि ।
पाद्यं समर्पयामि । अर्घ्यं समर्पयामि । आचमनीयं समर्पयामि ।
स्नानं समर्पयामि । वस्त्रं समर्पयामि । यज्ञोपवीतं समर्पयामि ।
गन्धं समर्पयामि । पुष्पाणि समर्पयामि ।
धूपमाघ्रापयामि । दीपं दर्शयामि ।
नैवेद्यं समर्पयामि । ताम्बूलं समर्पयामि ।
नीराजनं समर्पयामि । मन्त्रपुष्पं समर्पयामि ।
प्रदक्षिण नमस्कारान् समर्पयामि ॥

षोडशोपचार पूजा

शिव ध्यानम्

कर्पूर गौरं करुणावतारं
संसारसारं भुजगेन्द्र हारम् ।
सदा रमन्तं हृदयारविन्दे
भवं भवानी सहितं नमामि ॥
वन्दे महेशं सुरसिद्धसेवितं
देवाङ्गना गीत सुनृत्य तुष्टम् ।
पर्यङ्कगं शैलसुतासमेतं
कल्पद्रुमारण्यगतं प्रसन्नम् ॥
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलाङ्गं परशुवरमृगाभीति हस्तं प्रसन्नम् ।
पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्ववन्द्यं निखिल भयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥
ओ-न्तत्पुरुषाय विद्महे महादेवाय धीमहि ।
तन्नो रुद्रः प्रचोदयात् ॥
ओ-न्त्र्यम्बकं-यँजामहे सुगन्धि-म्पुष्टि वर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मा-ऽमृतात् ॥
ॐ नमः शिवाय ।
ध्यायामि । ध्यानं समर्पयामि ॥

आवाहनम्

ओङ्काराय नमस्तुभ्यं ओङ्कारप्रिय शङ्कर ।
आवाहनं गृहाणेदं पार्वतीप्रिय वल्लभ ॥
ॐ नमः शिवाय ।
आवाहयामि । स्थापयामि । पूजयामि ॥

आसनम्

नमस्ते गिरिजानाथ कैलासगिरि मन्दिर ।
सिंहासनं मया दत्तं स्वीकुरुष्व उमापते ॥
ॐ नमः शिवाय ।
आसनं समर्पयामि ॥

पाद्यम्

महादेव जगन्नाथ भक्तानामभयप्रद ।
पाद्यं गृहाण देवेश मम सौख्यं विवर्धय ॥
ॐ नमः शिवाय ।
पादयोः पाद्यं समर्पयामि ॥

अर्घ्यम्

शिवाप्रिय नमस्तेस्तु पावनं जलपूरितम् ।
अर्घ्यं गृहाण भगवन् गाङ्गेय कलशस्थितम् ॥
ॐ नमः शिवाय ।
हस्तयोः अर्घ्यं समर्पयामि ॥

आचमनीयम्

वामदेव सुराधीश वन्दिताङ्घ्रि सरोरुह ।
गृहाणाचमनं देव करुणा वरुणालय ॥
ॐ नमः शिवाय ।
मुखे आचमनीयं समर्पयामि ॥

स्नानम्

आपो हिष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
महे रणाय चक्षसे ॥
यो वः शिवतमो रसस्तस्य भाजयतेह नः ।
उशतीरिव मातरः ॥
तस्मा अर-ङ्गमाम वो यस्य क्षयाय जिन्वथ ।
आपो जनयथा च नः ॥
ॐ नमः शिवाय ।
शुद्धोदक स्नानं समर्पयामि ॥
स्नानानन्तरं आचमनीयं समर्पयामि ॥

वस्त्रम्

वस्त्रयुग्मं च दिव्यं च शोभनं प्रीति वर्धनम् ।
ॐ नमः शिवाय ।
वस्त्रं समर्पयामि ॥

यज्ञोपवीतम्

यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥
ॐ नमः शिवाय ।
यज्ञोपवीतं समर्पयामि ॥

गन्धम्

श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम् ॥
ॐ नमः शिवाय ।
गन्धं समर्पयामि ॥

अर्चन

अक्षतान् धवलान् दिव्यान् पुष्पाणि च सुगन्धीनि ।
भक्त्या दत्तानि गृह्यन्तां सर्वदेवाः प्रसीदत ॥

अङ्ग पूजा

ॐ शिवाय नमः - पादौ पूजयामि ।
ॐ महेश्वराय नमः - गुल्फौ पूजयामि ।
ॐ शम्भवे नमः - जानुनी पूजयामि ।
ॐ पिनाकिने नमः - ऊरू पूजयामि ।
ॐ शशिशेखराय नमः - कटिं पूजयामि ।
ॐ वामदेवाय नमः - उदरं पूजयामि ।
ॐ विरूपाक्षाय नमः - हृदयं पूजयामि ।
ॐ कपर्दिने नमः - कण्ठं पूजयामि ।
ॐ नीललोहिताय नमः - स्कन्धौ पूजयामि ।
ॐ शङ्कराय नमः - बाहू पूजयामि ।
ॐ शूलपाणये नमः - हस्तौ पूजयामि ।
ॐ खट्वाङ्गिने नमः - मुखं पूजयामि ।
ॐ अम्बिकानाथाय नमः - नेत्रे पूजयामि ।
ॐ श्रीकण्ठाय नमः - शिरः पूजयामि ।
ॐ भक्तवत्सलाय नमः - सर्वाण्यङ्गानि पूजयामि ॥

शिव अष्टोत्तर शत नामावली

अथवा शिव नामावली पठनम् ॥
ॐ नमः शिवाय ।
अष्टोत्तर शत नामावली पूजां समर्पयामि ।
अक्षतान् पुष्पाणि च समर्पयामि ॥

धूपम्

वनस्पत्युद्भवैर्दिव्यैः नानागन्धैः सुसंयुतः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
ॐ नमः शिवाय ।
धूपमाघ्रापयामि ॥

दीपम्

साज्यं त्रिवर्ति संयुक्तं वह्निना योजितं प्रियम् ।
गृहाण मङ्गलं दीपं त्रैलोक्य तिमिरापहम् ॥
ॐ नमः शिवाय ।
दीपं दर्शयामि ॥

नैवेद्यम्

नैवेद्यं गृह्यतां देव भक्त्या सम्पादितं मया ।
इदं फलं च पानीयं सर्वोपचार संयुतम् ॥
ओ-म्भूर्भुवस्सुवः । तत्सवितुर्वरेण्य-म्भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि ।
अमृतमस्तु । अमृतोपस्तरणमसि ।
ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा ।
ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा ।
मध्ये मध्ये पानीयं समर्पयामि ।
अमृतापिधानमसि ।
उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ॥
ॐ नमः शिवाय ।
नैवेद्यं समर्पयामि ॥

ताम्बूलम्

पूगीफलश्च कर्पूरैः नागवल्लीदलैर्युतम् ।
मुक्ताचूर्ण संयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ॐ नमः शिवाय ।
ताम्बूलं समर्पयामि ॥

नीराजनम्

वेदाहमेत-म्पुरुष-म्महान्तम् । आदित्यवर्ण-न्तमसस्तु पारे ।
सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वा-ऽभिवदन्, यदा-ऽऽस्ते ॥
ॐ नमः शिवाय ।
नीराजनं समर्पयामि ॥

मन्त्रपुष्पम्

नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये-ऽम्बिकापतय उमापतये पशुपतये नमो नमः ॥
ॐ नमः शिवाय ।
मन्त्रपुष्पं समर्पयामि ॥

प्रदक्षिणम्

यानि कानि च पापानि जन्मान्तर कृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पदे पदे सर्वतमो निकृन्तनं
पदे पदे सर्व शुभप्रदायकम् ।
प्रदक्षिणं भक्तियुतेन चेतसा
करोमि मृत्युञ्जय रक्ष रक्ष माम् ॥
ॐ नमः शिवाय ।
प्रदक्षिण नमस्कारान् समर्पयामि ॥

नमस्कारः

उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोऽष्टाङ्ग उच्यते ॥
ॐ नमः शिवाय ।
नमस्कारान् समर्पयामि ॥

सर्वोपचाराः

ॐ नमः शिवाय ।
छत्रं समर्पयामि ।
चामरं समर्पयामि ।
गीतं श्रावयामि ।
नृत्यं दर्शयामि ।
समस्त राजोपचारान् देवोपचारान् समर्पयामि ॥

स्तोत्र/सूक्त पठनम्

श्री रुद्रं नमकम्

शिव पञ्चाक्षरि स्तोत्रम्

क्षमाप्रार्थना

यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे महेश्वरम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि ॥
अनया ध्यान-आवाहनादि-षोडशोपचार पूजया श्रीपरमेश्वरः सुप्रीतः सुप्रसन्नः वरदो भवतु ॥

उद्वासनम्

ॐ नमः शिवाय ।
यथास्थानं उद्वासयामि ।
शोभनार्थे क्षेमाय पुनरागमनाय च ॥

प्रसाद ग्रहणम्

अकालमृत्युहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं देवता पादोदकं शुभम् ॥
श्रीपरमेश्वर प्रसादं शिरसा गृह्णामि ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ तत्सत् ब्रह्मार्पणमस्तु ॥

OHTCC Assistant ✕
🙏 Namaste! How can I help you today?