गोदा देवी अष्टोत्तर शत नामावली
- ॐ श्रीरङ्गनायक्यै नमः
- ॐ गोदायै नमः
- ॐ विष्णुचित्तात्मजायै नमः
- ॐ सत्यै नमः
- ॐ गोपीवेषधरायै नमः
- ॐ देव्यै नमः
- ॐ भूसुतायै नमः
- ॐ भोगशालिन्यै नमः
- ॐ तुलसीकाननोद्भूतायै नमः
- ॐ श्रीधन्विपुरवासिन्यै नमः
- ॐ भट्टनाथप्रियकर्यै नमः
- ॐ श्रीकृष्णहितभोगिन्यै नमः
- ॐ आमुक्तमाल्यदायै नमः
- ॐ बालायै नमः
- ॐ रङ्गनाथप्रियायै नमः
- ॐ परायै नमः
- ॐ विश्वम्भरायै नमः
- ॐ कलालापायै नमः
- ॐ यतिराजसहोदर्यै नमः
- ॐ कृष्णानुरक्तायै नमः
- ॐ सुभगायै नमः
- ॐ सुलभश्रियै नमः
- ॐ सुलक्षणायै नमः
- ॐ लक्ष्मीप्रियसख्यै नमः
- ॐ श्यामायै नमः
- ॐ दयाञ्चितदृगञ्चलायै नमः
- ॐ फल्गुन्याविर्भवायै नमः
- ॐ रम्यायै नमः
- ॐ धनुर्मासकृतव्रतायै नमः
- ॐ चम्पकाशोकपुन्नाग मालती विलसत्कचायै नमः
- ॐ आकारत्रयसम्पन्नायै नमः
- ॐ नारायणपदाश्रितायै नमः
- ॐ श्रीमदष्टाक्षरी मन्त्रराजस्थित मनोरथायै नमः
- ॐ मोक्षप्रदाननिपुणायै नमः
- ॐ मनुरत्नाधिदेवतायै नमः
- ॐ ब्रह्मण्यायै नमः
- ॐ लोकजनन्यै नमः
- ॐ लीलामानुषरूपिण्यै नमः
- ॐ ब्रह्मज्ञानप्रदायै नमः
- ॐ मायायै नमः
- ॐ सच्चिदानन्दविग्रहायै नमः
- ॐ महापतिव्रतायै नमः
- ॐ विष्णुगुणकीर्तनलोलुपायै नमः
- ॐ प्रपन्नार्तिहरायै नमः
- ॐ नित्यायै नमः
- ॐ वेदसौधविहारिण्यै नमः
- ॐ श्रीरङ्गनाथ माणिक्यमञ्जर्यै नमः
- ॐ मञ्जुभाषिण्यै नमः
- ॐ पद्मप्रियायै नमः
- ॐ पद्महस्तायै नमः
- ॐ वेदान्तद्वयबोधिन्यै नमः
- ॐ सुप्रसन्नायै नमः
- ॐ भगवत्यै नमः
- ॐ श्रीजनार्दनदीपिकायै नमः
- ॐ सुगन्धावयवायै नमः
- ॐ चारुरङ्गमङ्गलदीपिकायै नमः
- ॐ ध्वजवज्राङ्कुशाब्जाङ्क मृदुपाद तलाञ्चितायै नमः
- ॐ तारकाकारनखरायै नमः
- ॐ प्रवालमृदुलाङ्गुल्यै नमः
- ॐ कूर्मोपमेय पादोर्ध्वभागायै नमः
- ॐ शोभनपार्ष्णिकायै नमः
- ॐ वेदार्थभावतत्त्वज्ञायै नमः
- ॐ लोकाराध्याङ्घ्रिपङ्कजायै नमः
- ॐ आनन्दबुद्बुदाकारसुगुल्फायै नमः
- ॐ परमाणुकायै नमः
- ॐ तेजःश्रियोज्ज्वलधृतपादाङ्गुलि सुभूषितायै नमः
- ॐ मीनकेतनतूणीर चारुजङ्घा विराजितायै नमः
- ॐ ककुद्वज्जानुयुग्माढ्यायै नमः
- ॐ स्वर्णरम्भाभसक्थिकायै नमः
- ॐ विशालजघनायै नमः
- ॐ पीनसुश्रोण्यै नमः
- ॐ मणिमेखलायै नमः
- ॐ आनन्दसागरावर्त गम्भीराम्भोज नाभिकायै नमः
- ॐ भास्वद्वलित्रिकायै नमः
- ॐ चारुजगत्पूर्णमहोदर्यै नमः
- ॐ नववल्लीरोमराज्यै नमः
- ॐ सुधाकुम्भायितस्तन्यै नमः
- ॐ कल्पमालानिभभुजायै नमः
- ॐ चन्द्रखण्डनखाञ्चितायै नमः
- ॐ सुप्रवाशाङ्गुलीन्यस्त महारत्नाङ्गुलीयकायै नमः
- ॐ नवारुणप्रवालाभ पाणिदेशसमञ्चितायै नमः
- ॐ कम्बुकण्ठ्यै नमः
- ॐ सुचुबुकायै नमः
- ॐ बिम्बोष्ठ्यै नमः
- ॐ कुन्ददन्तयुजे नमः
- ॐ कारुण्यरसनिष्यन्द नेत्रद्वयसुशोभितायै नमः
- ॐ मुक्ताशुचिस्मितायै नमः
- ॐ चारुचाम्पेयनिभनासिकायै नमः
- ॐ दर्पणाकारविपुलकपोल द्वितयाञ्चितायै नमः
- ॐ अनन्तार्कप्रकाशोद्यन्मणि ताटङ्कशोभितायै नमः
- ॐ कोटिसूर्याग्निसङ्काश नानाभूषणभूषितायै नमः
- ॐ सुगन्धवदनायै नमः
- ॐ सुभ्रुवे नमः
- ॐ अर्धचन्द्रललाटिकायै नमः
- ॐ पूर्णचन्द्राननायै नमः
- ॐ नीलकुटिलालकशोभितायै नमः
- ॐ सौन्दर्यसीमायै नमः
- ॐ विलसत्कस्तूरीतिलकोज्ज्वलायै नमः
- ॐ धगद्धगायमानोद्यन्मणि सीमन्तभूषणायै नमः
- ॐ जाज्वल्यमानसद्रत्न दिव्यचूडावतंसकायै नमः
- ॐ सूर्यार्धचन्द्रविलसत् भूषणञ्चित वेणिकायै नमः
- ॐ अत्यर्कानल तेजोधिमणि कञ्चुकधारिण्यै नमः
- ॐ सद्रत्नाञ्चितविद्योत विद्युत्कुञ्जाभ शाटिकायै नमः
- ॐ नानामणिगणाकीर्ण हेमाङ्गदसुभूषितायै नमः
- ॐ कुङ्कुमागरु कस्तूरी दिव्यचन्दनचर्चितायै नमः
- ॐ स्वोचितौज्ज्वल्य विविधविचित्रमणिहारिण्यै नमः
- ॐ असङ्ख्येय सुखस्पर्श सर्वातिशय भूषणायै नमः
- ॐ मल्लिकापारिजातादि दिव्यपुष्पस्रगञ्चितायै नमः
अतिरिक्त नाम
- ॐ श्रीरङ्गनिलयायै नमः
- ॐ पूज्यायै नमः
- ॐ दिव्यदेशसुशोभितायै नमः